About the Journal

भारतवर्षस्य निधिभूतं संस्कृतवाङ्मयं मनुजसमाजस्य कल्याणकारीति सर्वविदितं वर्तते। धर्मार्थकाममोक्षरूपपुरुषार्थचतुष्टयस्य साधने मार्गदर्शकरूपेण सृष्टेरादिकालादेव वाङ्मयमिदं दृश्यते। राष्ट्रियैकतासम्पादने अस्य सर्वातिशायि महत्त्वं विद्यते। सबं-सजनीकान्तमहाविद्यालयस्य स्नातकोत्तरसंस्कृतविभागस्य संस्कृतविषयिणी वार्षिकी शोधपत्रिका मनीषा प्रकाश्यते। पत्रिकेयं प्रतिवर्षं निरवच्छिन्नतया प्रकाशतां गमिष्यति। मनीषा इति राष्ट्रियशोधपत्रिकायां भारतवर्षे विद्यमानेषु विविधविश्वविद्यालयमहाविद्यालयविद्यालयेषु कार्यरतानाम् आचार्योपाचार्यसहायकाचार्यगवेषकाणां विविधा मौलिकप्रबन्धाः सम्पादिताः सन्तीति कृत्वा इयं राष्ट्रियत्वं सगौरवं निर्वहन्ति।