Aim and Scope

जीवने यथा भोजनवस्त्रनिवासादीनामावश्यकता भवति तथैव शिक्षाया अपि आवश्यकता वर्तते। भोजनादिकमस्माकं शारीरिकावश्यकतां पूरयति। शिक्षा च अस्माकं सामाजिकाध्यात्मिकावश्यकतायै अतीवावश्यकी वर्तते। शिक्षयैव संस्काराः प्राप्यन्ते। शिक्षाहीनः जनः पशुभिः समानो भवति। भारतवर्षे विविधविश्वविद्यालये महाविद्यालये च कार्यरता विविधशास्त्रविशारदाध्यापकाः गवेषकाश्च स्वप्रतिभाबलेन अधीतशास्त्राणां रहस्यं सम्यग्बुद्ध्वा सरलसंस्कृतगिरा लेखान् विलिख्य अस्यां पत्रिकायां प्रकाशयितुं शक्नुवन्ति। अतः तेषां लेखकानां ज्ञानसौरभं समग्रे भारतवर्षे विद्यमानानां संस्कृतपाठकानां सविधे एतत्पत्रिकामाध्यमेन प्रसारितं भवति। एतेन संस्कृताध्येतॄणाम् अधीतशास्त्रेषु बोधविषयत्वं परिस्फुटं भवति। विदुषां छात्राणाञ्च विविधाः शोधलेखाः पत्रिकायाम् अस्याम् अन्तर्भवन्ति। अनेन नूनमेव पाठकानां ज्ञानवर्धनं यथा भविष्यति, तथैव जनाः ज्ञानार्जनाय प्रेरिता भविष्यन्तीति महतः प्रमोदस्यायं विषयः।