लेखकानां कृते निर्देशावलिः

  • मनीषाख्यायां संस्कृतशोधपत्रिकायां संस्कृतसम्बन्धिविविधतत्त्वानामेव प्रकाशनं भवति।
  • अस्यां पत्रिकायां संस्कृतभाषायां देवनागरीलिप्यां च लिखिताः शोधप्रबन्धा एव गृहीता भवन्ति।
  • प्रेषितेषु शोधलेखेषु विद्वद्भिः परीक्षिताः शोधलेखा एव स्वीकृता भवन्ति। लेखानां चयने संशोधने परिवर्धने च सम्पादकमण्डली एव प्रमाणम्।
  • मनीषाख्यायां शोधपत्रिकायां प्रकाशनार्थं प्रेषिताः शेधलेखाः शुद्धाः, मौलिकाः, प्रामाणिकाः, अन्यत्र कुत्रचित् पूर्वम् अप्रकाशिताश्च स्युः। एतदर्थं लेखकाः प्रमाणपत्रमेकं प्रयच्छेयुः।
  • शोधप्रबन्धः २०००-२५००संख्यकैः शब्दैः लिखितः स्यात्।
  • मनीषाख्यशोधपत्रिकायाः कृते शोधलेखस्य मूलप्रतिः प्रेषणीया। हस्तलिखितलेखाः छायाप्रतयश्च नैव स्वीक्रियन्ते। केवलं शुद्धटङ्किता लेखा एव गृह्यन्ते। A4-परिमिते पत्रे Unicode-आधारितदेवनागरीलिप्या (Sanskrit 2003, Lohit Hindi, Kalimati) अधोनिर्दिष्ट-अक्षरमानेन टङ्किताः स्युः। पार्श्वसीमा प्रतिदिशं १-इञ्च् देया।
  • प्रबन्धस्य अन्तिमे लेखकस्य नाम, वृत्तिः, सङ्केतः, दूरभाषक्रमाङ्कः, ई-मेलसङ्केतश्च अवश्यं लेखनीयम्।

शोधलेखे अवश्यं देयाः अंशाः

  • शोधशीर्षकम् (यथासम्भवं लघु, विषयवस्तुबोधनसमर्थं च भवेत्) [अक्षरमानम् -१६]
  • लेखकनाम [अक्षरमानम् -१४]
  • प्रबन्धसारः (१५०-२००संख्यकैः अक्षरैः भवेत्) [अक्षरमानम् -१०, italics]
  • कुञ्चीशब्दाः (पञ्च) [अक्षरमानम् -११]
  • विषयः (भूमिकादिरूपेण सज्जितः स्यात्) [अक्षरमानम् -११]
  • बिन्दुः (Points) – [अक्षरमानम् -१२, Bold]
  • सहायकग्रन्थसूची [अक्षरमानम् -११]

पादटिप्पणीनियमाः

  • वेद-उपनिषद्-रामायण-भगवद्गीता-महाभारत-पुराण-अष्टाध्यायीसूत्रग्रन्थादिभ्यः मन्त्राणां श्लोकानां सूत्राणां वा उद्धरणे तेषां पार्श्वे एव [वाल्मिकीयरामायणम् ५४/३०-३१] इत्येवंरूपेण कर्तव्यम्।
  • पङ्क्तीनामुद्धरणविषये ग्रन्थः टीकारूपश्चेत् पादटिप्पण्यां मूलग्रन्थेन साकं टीकाया नाम अपि उल्लेख्यम्। यथा –

कठोपनिषद् १-२-४ मन्त्रस्य शाङ्करभाष्यम्

  • मूलग्रन्थेभ्यो यदि पङ्क्तयः स्वीक्रियन्ते तदा तद्ग्रन्थस्य नाम, अध्यायनाम, श्लोकसंख्यादिकं च प्रदेयम्।
  • आधुनिकग्रन्थेभ्यो पङ्क्तीनामुद्धरणविषये तु ग्रन्थकारस्य नाम पृष्ठसंख्या च प्रदेया।
  • पादटिप्पण्युक्तग्रन्थानां विस्तृतं विवरणं ग्रन्थसूचीमध्ये प्रदेयम्।

ग्रन्थसूचीनियमाश्च

  • ग्रन्थकारः। (प्रकाशनवर्षम्)। ग्रन्थस्य नाम। सम्पादकः। प्रकाशनस्थानम् : प्रकाशकः। यथा –
  • भर्तृहरिः। (२००७)। वाक्यपदीयम् (ब्रह्मकाण्डम्)। खण्डूडी, सत्यनारायणः (सम्पा.)। वाराणसी : चौखम्बा संस्कृत संस्थान।
  • लेखानां प्रेषयाण ई-पत्रसङ्केतः – [email protected]
  • लेखसम्बन्धिजिज्ञासा पूर्वोक्त-ईपत्रसङ्केतमाध्यमेनैव प्रेषणीया।
  • यथासमयं लेखः प्रेषणीयः।